रविवार, 22 सितंबर 2013

विजयादशमी

विजयादशमी


     अस्माकं देशे अनेके उत्सवाः यथासमयं मान्यन्ते | अतः भारतीयाः उत्सवप्रियाः इति यत् कथ्यते तत् सत्यमेव |   दीपावली ,होलीकादहनम्,गणेशोत्सवः ,दिजयादशमी इत्यादयः अनेके हिन्दूत्सवाः  सन्ति |  एतेषु उत्सवेषु विजयादशमी इति मम प्रियोत्सवः |
            एतद् पर्व आश्विन्मासस्य शुक्लपक्षे दशम्यां तिथौ मान्यते |एतस्य विषये एका प्रसिद्धा आख्यायिका वर्तते | यत् यदा श्रीरामः लङ्काधिशं  पराजितं कृत्वा अयोध्यायाम् आगच्छत् तदा तस्य आनन्दोत्सवः एव विजयादशमी इति नाम्ना आयोजितः |अधुना अपि बहवः जनाः अस्मिन् अवसरे शस्त्राणां पूजां कुर्वन्ति |
          उत्तरभारते अस्मिन् पर्वणि ग्रामे ग्रामे रामलीला आयोज्यते | रामलीला सदाचारं सद्व्यवहारं च शिक्षयति | रावणदहनस्यापि कार्यक्रमाः स्थाने स्थाने आयोज्यन्ते | अस्मिन् अवसरे महाराष्ट्रे जनाः शमीपत्राणि सुवर्णरुपेण यच्छन्ति |एतद् पर्व दुर्गापूजारुपेणापि  बन्गालप्रान्ते मान्यते | जनाः नवरात्रेषु शक्तेः उपासनां कुर्वन्ति दशम्यां तिथौ तस्याः पूजां कृत्वा दुर्गाप्रतिमायां विसर्जनं कुर्वन्ति |

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें